About Product
‘त्वमपि मया सह चल’ जीवनमिदं सङ्घर्षशीलैर्मानवैर्न केवलं प्रतिक्षणं, प्रतिपदं, प्रतिपरिवर्तनं, प्रतिश्वासं चानुभूयते, अपितु गरलनिभकटुकानुभवा अस्मिन्नमृतवदास्वाद्यन्ते। जीवनेन मृत्युना च सह सङ्घर्षमाचरन् पुस्तकस्यास्य रचयिता निश्शङ्ककविः कश्चन विकलः पथिकः। स एष पथिकः मूकेतिहासाय, बन्ध्यायै व्यवस्थायै च न विद्रुह्यति, प्रत्युत हताशायाः घोरे तमसि आशायाः सुप्रभातं प्रत्यक्षीकरोति। अयं न केवलं सन्मानवमन्विष्यति, अपितु संसारस्य सर्वा पीडाः स्वस्मिन् समायोजयति, निरर्थकबन्धनानि मर्दयति, दुखप्रतिघातानपि सहते, परन्तु आत्मानमेकलं सदैव पश्यति। पुस्तकस्यास्य कवितासु प्रतीयतेऽसह्या पीडा। पीडायाः समुत्पन्नं गीतम्। तेन गीतेनाविष्कृं मधुं स्मितमोष्ठयो। तादृशेन स्मितेन सञ्जीवितः शुष्कशरीरेऽमरत्वसङ्कल्पः। अतः लघुजीवनस्य सुदीर्घपथे पुस्तकमिदं ‘त्वमपि मया सह चल’ इत्यभिधानं सार्थकीकरोति। पीडानिष्पीडित- जीवनमरुमरीचिकायां सुधास्वादायाभिसारयति पाठकान् पुस्तकमिदं सुतराम्। * * * * * ‘जीवनपथे’ पुस्तकेऽस्मिन् निश्शङ्ककविः जीवन- सङ्घर्षाणामव्याजवर्णनस्य पटं वयति। अस्य कविता समाजस्य, आत्मनश्चान्वेषणं विदधती दृश्यते। सामाजिकव्यवस्थासु विद्यमानानां विसङ्गतीनां विलोपं कामयमाना कविलेखनी सङ्घर्षाय कृतोद्यमा प्रतीयते। अत इह विद्यमानाः कविता विचाराणां व्यापकता- कारणात्, सामाजिकान्तर्द्वद्वकारणाच्च सामान्यजनकवितात्वेन प्रथितिं भजन्ते। अवसादपरिपूर्णेऽस्मिन् समाजे निश्शङ्क- कविताः सकारात्मकं सामर्थ्यं, प्रसादं च सञ्चारयन्ति। भाषायाः सरलतायामर्थ- गाम्भीर्यमासां महिमा। भावानां गहनतन्तुषु विचाराणां स्पष्टताऽऽसां सौन्दर्यम्। क्लेश- कर्दमेऽपि प्रसादोपलब्धिरासां सम्भावना। यद् दुखं तदतीतं, यत्तु सुखं तत् पुरो भासमान- मित्यस्य कवितानामावाहनं पाठकै प्रत्येतुं शक्यते।.
Tags:
Literature;
Poetry;